वांछित मन्त्र चुनें

अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् । तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तीम् ॥

अंग्रेज़ी लिप्यंतरण

ahaṁ rāṣṭrī saṁgamanī vasūnāṁ cikituṣī prathamā yajñiyānām | tām mā devā vy adadhuḥ purutrā bhūristhātrām bhūry āveśayantīm ||

पद पाठ

अ॒हम् । राष्ट्री॑ । स॒म्ऽगम॑नी । वसू॑नाम् । चि॒कि॒तुषी॑ । प्र॒थ॒मा । य॒ज्ञिया॑नाम् । ताम् । मा॒ । दे॒वाः । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । भूरि॑ऽस्थात्राम् । भूरि॑ । आ॒ऽवे॒शय॑न्तीम् ॥ १०.१२५.३

ऋग्वेद » मण्डल:10» सूक्त:125» मन्त्र:3 | अष्टक:8» अध्याय:7» वर्ग:11» मन्त्र:3 | मण्डल:10» अनुवाक:10» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहं राष्ट्री) मैं जगद्रूप राष्ट्र की स्वामिनी हूँ (वसूनां सङ्गमनी) समस्त धनों की सङ्गति करानेवाली-प्राप्त करानेवाली (यज्ञियानाम्) श्रेष्ठ कर्मों की (प्रथमा) प्रथम-प्रमुख (चिकितुषी) चेतानेवाली हूँ (भूरिस्थात्राम्) बहुरूप स्थितिवाली (भूरि-आवेशयन्तीम्) जड़ जङ्गम पदार्थों में बहुरूप से आवेश करती हुई (तं मा) उस ऐसी मुझको (देवाः) विद्वान् जन (पुरुत्रा) बहुत रूपों में (व्यदधुः) वर्णन करते हैं ॥३॥
भावार्थभाषाः - पारमेश्वरी ज्ञानशक्ति जगद्रूप राष्ट्रस्वामिनी है, धनों की प्राप्ति भी वह कराती है, यज्ञसम्बन्धी कर्मों का विधान बतानेवाली है। बहुत विद्यास्थानवाली सब पदार्थों में प्रविष्ट को विद्वान् जन बहुत रूपों में वर्णन करें जानें ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहं राष्ट्री) अहं जगद्रूपस्य राष्ट्रस्य स्वामिनी खल्वस्मि “राष्ट्री ईश्वरनाम” [निघ० २।१२] (वसूनां सङ्गमनी) समस्तधनानां सङ्गमयित्री (यज्ञियानां प्रथमा चिकितुषी) श्रेष्ठकर्मणां प्रमुखा चेतयित्री (भूरि-स्थात्राम्) बहुरूपस्थितिमतीं (भूरि-आवेशयन्तीम्) जडजङ्गमेषु पदार्थेषु बहुरूपेणावेशन्तीमाविष्टां (तां मा) तां मां (देवाः) विद्वांसः (पुरुत्रा) बहुरूपेषु (वि अदधुः) वर्णयन्ति “एकं सद्विप्रा बहुधा वदन्ति” [ऋ० १।१६४।४६] ॥३॥